________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नयद्वारम्
" नए समोयारणागुमए ” इत्यत्रोपन्यस्तत्वात्, न च सूत्रव्यतिरिक्त मध्ययनमस्ति यन्नयैर्विचाय्यते, अत्रोच्यते, यस्तावत्प्रतिसूत्रं नयविचारनिषेधः प्रेयेते तत्राविप्रतिपत्तिरेव, किं च-आसज्ज उ सोयारं नए विसारो वया ।। छाया-आसाद्य तु श्रोतारं नयान् नय विशारदो ब्रूयात् इति, इत्यनेनापवादिक: सोऽनुज्ञात एव, यदप्युच्यते-समस्ताध्ययनविपस्य नविचारस्य प्रागुपोद्घाते " त्यादि, तत् समयानभिज्ञस्यैव वचनं, यस्माद्विमेव चतुर्थानुयोगद्वारं नयवक्तव्यताया मूलस्थानम् , अत्र सिद्धानामेव तेषां तत्रोपन्यासः; यदप्युक्त" नच सूत्र व्यतिरिक्तमध्ययन मित्यादि, तदप्यसारंसमुदाय समुदायिनो: कार्यादिभेदतः कथञ्चिद्भेदसिद्धेः, तथाहि-प्रत्येकावस्थायामनुपलब्धमप्युद्वहन सामर्थ्यलक्षणं कार्य शिविकाबाहकपुरुषसमुदाये उपलभ्यते, एवञ्च प्रत्येकसमुदितावस्थयोः कार्यभेदः शिविकावाह नादिषु सामर्थ्यासामर्थ्य लक्षणो विरुद्धधर्माध्यासश्च दृश्यते, यदि चाय मपि न भेदकस्तर्हि सर्व विश्वमेकं स्यात् ततश्च सहोत्पत्त्यादि प्रसङ्गः, तस्मात् कार्यभेदाद् विरुद्धधर्माध्यासाच्च समुदाय समुदायिनोभेर्दः प्रत्तिपत्तव्यः, एवं संख्या संज्ञादिभ्योऽपि तद्भेदो भावनोयः, तस्मात् कश्चित् कचित् सूत्र विषयः समस्ताध्ययन विषश्च नय विचारो न दुष्यति, भवत्वेवं तथा ऽप्यध्ययनं नयैर्विचा-माणं किं सर्वैरेव विचायते ? आहोस्विद् कियद्भिरेव १ यदि सर्वैरिति पक्षः स न युक्त;, तेषाम संख्येयत्वेन तैविचारस्य कर्तु मशक्यत्वात्, तथाहि-यावन्तो वचन मागों स्तावन्त एव नया:, यथोक्तम्-जावइया वयणप्पहा तावइया चेव होंति नयवाया ॥ जावइया नयवाया तावइया चेव परसमया ॥१॥छाया
For Private And Personal Use Only