________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
जैनागमन्यायसंग्राह पादको नयोऽप्युपचारादेवभूतः, अथवा एवं-यः शब्देनोच्यते चेष्टाक्रियादिकः प्रकारस्तविशिष्टस्यैव वस्तुनोऽभ्युपगमात्तमेवंभूत-प्राप्त एवंभूत इत्युपचारमन्तरेणापि व्याख्यायते, स एवं भूतोनयः किमित्याह व्यज्यतेऽर्थोऽनेनेति व्यञ्जनं शब्दः अर्थस्तु तदभिधेयवस्तुरूपः व्यञ्जनञ्चार्थश्च व्यञ्जनार्थों तौ च तौ तदुभयं चेति समासः व्यञ्जनार्थशब्दयायस्तनिर्देशः प्राकृतत्वात्, तव्यञ्जनार्थतदुभयं विषयति-नयत्येन स्थापयति, इदमत्र हृदयम्-शब्दमर्थनार्थ च शब्देन विशेषति, यथा “घ_ ट चेष्टायां घटते योषिन्मस्तकाद्यारूढश्चेष्टते इति घट इति, अत्र तदे. वासौ घटो यदा योषिन्मस्तकाद्यारूढतया जलाहरणचेष्टावोन नान्यदा, घटध्वनिरपि चेष्टां कुर्चत एव तस्य वाचकोनान्यादेत्येवं चेष्टावस्थातोऽन्य त्र घटस्य घटत्वं घट शब्देन निवत्येते, घटध्वनेरपि तदवस्थातोऽन्यत्र घटेन स्ववाचकत्वं निवत्यैते इति भावः इति गाथार्थः।। उक्ता मूल नया: एषाश्चोत्तरोत्तरभेदप्रभेदा आवश्यकादिभ्योऽवसेयाः एते च सावधारणाः सन्तो दुर्नयाः, अवधारणविरहितास्तु सुनयाः, सर्वैश्च सुनयैर्मीलितैः स्याद्वाद इत्यलं बहुभाषितया ॥ अत्राह कश्चित् -- ननूक्ता एते नयाः, केवलं प्रस्तुते किमेतैः प्रयोजनमिति नावगच्छामः, उच्यते, उपक्रमेणोपक्रान्तस्य निक्षेपेण च यथासम्भवं निक्षिप्तस्यानुगमेनानुगतस्य च प्रक्रान्तसामायिकाध्ययनस्य विचारणाऽमीषां प्रयोजनम् । पुनरप्याह नन्वेषा नयैर्विचारण किं प्रतिसूत्रमभिप्रेता सर्वाध्ययनस्य वा ? यद्याद्यः पक्षः स न युक्त, प्रतिसूत्रं नयविचारस्य "न नया समोयरंति इह " मित्यनेन निपिद्धत्वात, अथोपरः पक्षः सोऽपि न युक्तः, समस्ताध्ययन विषयस्यनयविचारस्य प्रागुपोद्घातनियुको
For Private And Personal Use Only