________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनागमन्यायसंग्रहः वस्तुवृत्या नभस्येवावगाहात् , येषु प्रदेशेषु संन्तारको वर्तते संस्तारके रणवाक्रान्ता वर्तन्ते, ततो येष्वेव प्रदेशेषु स्वयमवगाढस्तेष्वेव वसतीत्युच्यते, सच वर्तमानकाल एवास्ति, अतीतानागतयोविनष्टानुत्पन्नत्वेनैतन्मतेऽसत्वादिति ।: त्रयाणां शब्दनयानामात्मभावे-स्वस्वरूपे सर्वोऽपि वसति अन्यस्यान्यत्रवृत्ययोगात् , तथाहि अन्योऽन्यत्र वर्तमानः किं सर्वात्मना वर्तते देशात्मना वा ?, यद्याद्यः पक्षस्तर्हि तस्याधारव्यतिरेकिणास्वकोयरूपेणाप्रतिभासनप्रसङ्गो, यथाहि संस्तारकाद्याधारस्य स्वरूपं सर्वात्मना तत्र वृत्तं न तद् व्यतिरेकेणोपलभ्यते एवं देवदत्तादिरपि सर्वात्मना तत्राधीयमानस्तद् व्यतिरेकेण नोपलभ्यते, अथ द्वितीयो विकल्पः स्वीक्रियते, तर्हि तत्रोषि देशे अनेन वर्तितव्यं, ततः पुनरपि विकल्पद्वयं-कि सर्वात्मनावर्त्तते देशोत्मनावेति १ सर्वात्मपक्षेदेशिनो देशरूपताऽऽपत्ति, देशात्मपक्षे तु पुनस्तत्रापिदेशे देशिना वर्तितव्यं, ततः पुनरपि तदेव विकल्पद्वयं, तदेवदूषणमित्यनवस्था, तस्मात्सर्वोऽपि स्वस्वभाव एव निवसति, तत्परित्यागेनान्यत्र निवासे तस्य निःस्वभावता प्रसंगादित्यलं बहुभाषितया । ‘से त' मित्यदि निगमनम्
मूलः-से किं तं पएसदिट्ठ'तेणं १, २ णेगमो भणइछएह पएसो, तंजहा-धम्मपएसो अधम्मपएसो अागासपएसो जीवपएसो खंधपएसो देसपएसो, एवं वयं णेगमं संगहो भणई-जं भणसि-छण्हंपएसो तं न भवइ, कम्हा ?, जम्हा जो देसपएसो सो तस्सेव दव्वस्स, जहा को दिढतो ?, दासेण मे खरो कीओ दासोऽवि मे खरोऽवि मे, तं मा भणाहि-छण्ड
For Private And Personal Use Only