________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावप्रमाणम् द्धनैगमस्त्वतिव्याप्तिपरत्वादिदमसङ्गतं मन्यते, सतस्तियल्लोके वसामीति संक्षिप्योत्तरं ददाति; विशुद्धतरस्त्विदमप्यतिव्याप्ति निष्ठं मन्यते, ततो जम्बूद्वोपेवसामीति संक्षिप्ततरमाह, एवंभारतवर्षदक्षिणार्द्धभरतपाटलिपुत्रदेवदत्तगृहगर्भगृहेष्वपि भावनीयम् , एवं 'विसुद्धस्सणेगमस्स वसमाणो वसइ' एवमुत्तरोत्तरभेदापेक्षया विशुद्धतरनैगमस्य वसन्नेव वसति, नान्यथा, इदमुक्तं भवति-यत्र गृहादौ सर्वदा निवासित्वेनासौ विवक्षितः तत्र तिष्ठन्नेव एष तत्र वसतीति व्यपदिश्यते, यदि पुनः कारणवशतोऽन्यत्र रध्यादौ वर्तते तदा तत्र विवक्षिते गृहादौ वसतीति न प्रोच्यते, अतिप्रसङ्गादिति भावः, 'एवमेवे' त्यादि, लोकव्यवहारनिष्ठो हि व्यवहारनयो, लोके च नैगमोक्तप्रकारः सर्वेऽपि दृष्यन्ते इति भावः, अथ चरमनैगमोक्तप्रकारो लोके नैष्यते, कारणतो ग्रामादौ वर्तमानेऽपि देवदत्ते पाटलिपुत्र एष वसतीति व्यपदेशदर्शनादिति चेत् , नैतदेवं, प्रोषिते देवदत्ते स इह वसति नवेति केनचित्पृष्टे प्रोषितोऽसौ नेह वसतीत्यस्यापि लोकव्यवहारस्य दर्शनादिति । 'संगहस्से' त्यदि, प्राक्तनात् विशुद्धत्वात् संग्रहनयस्य गृहादौ तिष्ठन्नपि संस्तारकारूढ़ एव शयनक्रियावान् वसतीत्युच्यते, इदमुक्तं भवनि-संस्तारकेऽवस्थानादन्यत्रनिवासार्थ एव न घटते, चलनादिक्रियावत्त वात् , मार्गादिप्रवृत्तवत् संस्तराके च वसतो गृहादौ वसतीति व्यपदेशायोग एव, अतिप्रसङ्गात् , तस्मात कासौ वसतीति निवासजिज्ञासायां संस्तराके-शय्यामात्रस्वरूपे बसतीत्ये तदेवास्य मतेनोच्यते, नान्यदिति भावः, स च नानादेशादिगतोऽप्येक एव संग्रहस्य सामान्यवादित्वादिति ? ऋजुसूत्रस्य तु पूर्वस्माद्विशुद्धत्वाद् येष्वाकाशप्रदेशेष्ववगाढस्तेष्वेव वसतीत्युच्यते. न संस्तराके, सर्वस्यापि
For Private And Personal Use Only