SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भावप्रमाणम Acharya Shri Kailassagarsuri Gyanmandir २३ करोति, शेषास्तु सप्तानुचरतामाश्रयन्ति एवं चाष्टादशभिर्मासैरयं कल्पः समाप्यते तत्समाप्तौ च भूयस्तमेव कल्पं जिनकल्पं प्रति पद्येरन् गच्छं वा प्रत्यागच्छेयुरिति त्रयीगतिः, अपरं चैतच्चारित्रं छेदोपस्थापनचरवतामेव भवति, नान्येषामित्यलमतिप्रसंगेन, तदेवमिह यो यस्तपः कृत्वा अनुपरिहारिकतां कल्पस्थिततां वाऽङ्गीकरोति तत्सम्ब परिहारविशुद्धिकं निर्विष्टकायिकमुच्यते, ये तु तपः कुन्ति तत्सम्बन्धि निर्विश्यमानकमिति स्थितम् । संपरैति - पर्यटति संसारमनेनेति सम्परायः क्रोधादिकषायः, लोभांशमात्रावशेषतया सूक्ष्मः सम्परायो यत्र तत्सूक्ष्मसम्परायम् इदमपि संक्लिश्यमान विशुध्यमानकभेदात् द्विधैव, तत्र श्रेणीमा रोहतो विशुध्यमानकमुच्यते, ततः प्रयमस्य संक्लिश्यमानकमिति, 'अह्वायं' ति अथ शब्दोऽत्रयाथातथ्य्ये आङभिविधौ - समन्ताद्याथातथ्येन ख्यातमथाख्यातं कषायोदयाभावतो निरतिचारत्वात पारमार्थिकरूपेण ख्यातमथाख्यातमित्यर्थः, एतदपि प्रतिपात्यप्रतिपाति भेदात् द्व ेधा, तत्रोपशान्तमोहस्य प्रतिपाति क्षीरणमोदस्यत्वप्रतिपाति; अथवा केवलिनश्छद्मस्थस्य चोपशान्तमोहक्षीणमोहस्य तद् भवत्यतः स्वामो भेदात् द्वं विध्यमिति । तदेतच्चारित्रगुणप्रमाणम्, तदेत्तज्जीवगुणप्रमाणं, तदेतद्गुणप्रमाणमिति || १४४ || तदेवं जीवाजीवभेदभिन्नं गुणप्रमाणं प्रतिपाद्य क्रमप्राप्तं नयप्रमाणं प्रतिपादयन्नाह मूलः -- से कि तं नयप्पमाणे १, २ तिविहे पण्णत्ते, तं जहा -- पत्थगदि तेणं वसहिदिट्ठ तेणं पएसदिट्ठ तेां । से किं तं पत्थगदिट्ठ तेणं १, २ से जहानामए केई For Private And Personal Use Only
SR No.010328
Book TitleJainagam Nyayasangraha
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages148
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy