________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनागमन्यायसंग्रहः तदेव निमित्तरूपतया यस्यानुमानस्यास्ति तत्पूर्ववत्, तद्द्वारेण गमकमनुमानं पूर्ववदिति भावः । तथा चाह 'माता पुत्र' मित्यादिश्लोक; यथा माता स्वकीयं पुत्र बाल्यावस्थायां नष्टं युवानं सन्तं कालान्तरेण पुनः कथमप्यागतं काचित्तथाविधस्मृतिपाटववती, न सत्रोः, पूर्वदृष्टेन लिङ्गन केनचित् क्षतादिना प्रत्यभिजानीयात्-मत्पुत्रोऽमिति अनुमिनुयादित्यर्थः, केनपुनर्लिङ्ग नेत्याह-'क्षतेन वे? त्यादि, स्वदेहोद्भवमेव क्षतं, आगन्तुकस्तु श्वदंष्ट्रादिकृतो व्रणः, लाञ्छनमपतिलकास्तु प्रतीताः, तदयमत्र प्रयोगो--मत् पुत्रोऽयम्, अनन्यसाधारणक्षतादिलक्षणविशिष्टलिङ्गोपलब्धेरिति, साध
वैधर्म्यदृष्टान्तयोः सत्त्वेतराभावादयमहेतुरिति चेत्, नैवं, हेतो:परमार्थेनैकलत्तणत्वात्, तद्वलेनैव गमकत्वोपलब्धेः, उक्त च न्यायवादिना पुरुषचन्द्र ण-" अन्यथाऽनुपपन्नत्वमात्रं हेतोः स्वलक्षणम् । सत्वासत्वे हितद्धर्मों, दृष्टान्तद्वयलक्षणे ॥ १॥ तद्धर्माविति-अन्यथाऽनुपन्नत्वधर्मों, कथम्भूते सत्वासत्वे इत्याह-साधर्म्यबैधर्म्यरूपे दृष्टांतद्वये लक्ष्यतेनिश्चीयते [अथ यदि ] दृष्टांतद्वय लक्षणेन च धर्मिसत्तायां धर्माः सर्वेऽपि सर्वदा भवन्त्येव, पटादेः शुक्लत्वादिधर्मं य॑ (ख्य) भिचारात; ततो दृष्टांतयोः सत्वासत्वधर्मों यद्यपि कचिद्धेतौ न दृश्येते तथापि धर्मिस्वरूपमन्यथानुपपन्नत्वं भविष्यतीति न कश्चिदविरोध इति भावः । यत्रापि धूमादौ दृष्टांतयोः सत्वासत्वे हेतोई श्येते तत्रापि साध्यान्यथानुपपन्नत्वस्यैव प्राधान्यात्तस्यैवैकस्य हेतुलक्षणा ताऽवसेया, तथा चाह-"धूमादेर्यद्यपि स्याता, सत्वासत्वे स्वलक्षणे । अन्यथानुपपन्नत्वप्राधान्याल्लक्षणैकता ॥॥ किंच यदि दृष्टान्ते सत्वासत्वदर्शनाद्धेतुर्गमक इष्यते तदालोहलेख्यं वज्र पार्थिवत्वात् काष्ठादिवदित्यादेरपि गमकत्वं स्यात् , अभ्यधायिच.
For Private And Personal Use Only