________________
(६९)
आत्मापि दुःखानि न भोक्तुकामस्तथापि दुःखान्ययमाश्रयेत ॥ १५ ॥ द्रव्यादिसामग्यतथाऽनिवार्यशक्त्यैव कर्माणि तु तादृशान्यपि । स्फुटानि भूत्वा स्वकर्तृकं बलादात्मानमेनं ननु दुःखयन्ति ।। १६ ॥ युग्मम् ।। यथोष्णकालादिऋतौ समेते कश्चिज्जनः शीतलवस्तुसेवी । मृष्टादिकाम्लादिकरम्यभोजी स्यात्तस्य तद्योगसमुत्थवातः ॥ १७ ॥ वर्षा ऋतुं प्राप्य पुरु प्रकुप्यति प्रायो वपुःस्थः समीर उग्रः ।।
४१ द्रव्यमादौ येषां तानि द्रव्यादीनि द्रव्यक्षेत्रकालभावरूपाणि समग्रवस्तूत्पतिस्थितिनाशहेतुभूतानि तेषां सामग्य सामग्रीसमवायस्तस्य तथेति तादृशी अनन्यरूपा सा चासौ अनिवार्या प्रतिहता बलवती वा सा चासौ शक्तिश्च तमा प्रेरकभूतया तादृशान्यपि जडान्यजीवानि च कर्माणि द्रव्यादिसामग्र्यो सत्यां प्रकटीभय स्खेपामात्मीयानां कारक कर्तारं बलादेनमात्मानं दुःखद्वेषिणमपि दुःखयन्ति दुःखिनं कुर्वन्ति अत एव कादिरेरकं विनैव द्रव्यक्षेत्रकालभावसामाग्र्या प्रेरकभृतया जडान्यपि कर्माणि कश्चित् कालमात्मनि स्थित्वापि ततः प्रकटीभृयास्मानं दुःस्वयन्ति सुखयन्ति वा न तु कनोदिमेरकमेरितानि इति भावः। ४२ भरि ।