________________
( ६३ ) अथ एकादशोऽधिकारः
स्वामिन्निदं विश्वमशेषमित्थं पूर्ण निगोदैर्यदि तर्हि तत्र । कर्माण्यथो पुद्गलराशयो ऽपि धर्मास्तिकायादि कथं हि मान्ति ॥ १ ॥ सत्यं यथा गान्धिकहट्टमध्ये कर्पूरगन्धः प्रसृतो ऽस्ति तत्र । कस्तूरिकाजातिफलादिसर्ववस्तूत्थगन्धो ननु माति किं न ॥ २ ॥ तत्रास्ति मार्तण्डतपस्तथैव धूपस्य धूमस्त्रसरेणवो ऽपि । वायुश्च शब्दश्च सुमादिगन्धो मातो यथा स्यादथ चावकाशः ।। ३ ।। पुनश्च कस्यापि विचक्षणस्य वक्षोन्तराशास्त्रपुराणविद्याः । वेदाः स्मृतिमन्त्रकलाश्च यन्त्रतन्त्राणि सर्वाण्यभिधानकोपाः ॥ ४ ॥ ज्योतिर्मतिाकरणादिविद्या