________________
( ५१ )
मुनीश्वरा ब्रह्मणि ब्रह्म लीयते ज्योतिस्तथा ज्योतिषि संविशेदिति । कथं प्रवादो घटते महात्मना - मयं विना ब्रह्म पुराणवेदिनाम् ॥ ४ ॥ निशम्यतां ज्ञानमिदं वदन्ति ब्रह्मेति वा ज्योतिरथेति विज्ञाः । तदेकसिद्धस्य हि ब्रह्म यावत् क्षेत्रं श्रयेत्सर्वदिशास्वनन्तम् ॥ ५ ॥ तावद् द्वितीयस्य तृतीयकस्य सिद्धस्य ब्रह्मयते तदेव । एवं ह्यनन्तीमित सिद्धनाम्रां ब्रह्माश्रयेत् क्षेत्रमहो तदाश्रितम् ॥ ६ ॥ नेति गर्ब्रह्मणि ब्रह्म णीयते ज्योतिस्तथा ज्योतिषि सम्मिलत्यथ । अयं प्रवादो मुनिभिः पुरातनैः
९७ पुरातनतत्वविदाम् । ९८ ब्रह्मशद्धेन ज्ञानमुक्तमनेकार्थे, तदेव ज्ञानं प्रकाशकत्वात् ज्योतिरिव ज्योतिरिति ज्योतिरपि लोका व्यवहरन्ति तत एकस्यापि परमज्ञानस्य ब्रह्म ज्योतिश्चेति नामद्वयं लोकाः श्रितास्ततो लोकाशयेनोच्यते ब्रह्मेति ज्ञानं ज्योतिर्वेति । ९९ ज्ञानम् । ३०० अनन्ता अत एवामिता ये सिद्धा इतिनामानः । १ ज्ञानं ज्योतिर्वा । २ सिद्धज्ञानाश्रितम् ।