________________
'
(५०)
अथ नवमोऽधिकारः
किं ब्रह्म सिद्धापरनामकीर्त्तितं ध्येयं मुनीनामपि शुद्धचेतसाम् | भवार्णवे यानवदेव योगिनो जानन्ति यन्मुक्तिगृहं यियासवः ॥ १ ॥ स्वामिन् यदीयं न हि सृष्टिरुत्थिता सकाशतो ब्रह्मण इत्यवाचि चेत् । इयं कुतः स्यादपयाति वा कुतो निगद्यतामद्य रहस्यमेतकद || २ || त्रिकालविज्ञा इति योगिनो ये निरागिणस्ते ऽभिदधुर्विशिष्टाः । कालात्स्वभावान्नियतेश्ववीर्यतः सृष्टिक्षयौ स्तः समवायपञ्चकात् ॥ ३ ॥
९४ अथ जिज्ञामुः पृच्छति ब्रह्मभूयमित्यत्र किं नाम ब्रह्मेत्युक्ते तज्जिज्ञासोराशयेन वदति सिद्धान्ती । ९५ यत् सिद्वापरनाम ब्रह्म भवार्णवे संसारसागरे योगिनः मुक्तिरूपं गृहं प्रति प्राप्तुकामाः प्रवहणवत् आमनन्ति, गृहप्रवेशेतु कर्त्तव्ये यथा प्रवहणं परित्यज्यते तथा मुक्ति गृहगमनावसरे सिद्धध्यानमपि संत्यज्यात्मध्यानं च समभावलक्षणमाश्रित्य मुक्तिगृहं प्रविशन्तीति भावः । ९६ कालः स्वभावनियती, पूर्वकृतं पुरुपकारणं पञ्चः समवाये सम्यक्त्व, - मेकत्वे भवति मिथ्यात्वम्. इति जैन तत्वम् ।