________________
( ४७ ) कर्ता कथं सङ्कटपेटकोदरे दौर्गत्यदौस्थ्यादिमये भवे ऽस्मिन् । जाननिजांशान्सहसैव नुद्यात् स्वकस्वरूपादिनिपात्य रम्यात् ॥ ५९ ॥ एषा तु लीलास्ति यदीश्वरस्य संसार एवैष ततस्तदिष्टः। तदा तु संसारिजनैस्तदीप्त्यै कष्टादि केनाथ विधेयमुग्रम् ॥ ६० ॥ पूर्वापरानाश्रितवाक्यमेतत् । प्रजल्पतां कापि न वाक्प्रतीतिः । ये सर्वसद्रूपगुणानदोषान् कर्तुर्वरांशानिति पातयन्ति ॥ ६१ ।। किंतर्हि वाच्यं शृणु किञ्चिदस्ति ज्योतिर्मयं चिन्मयमेकरूपम् । द्रष्टै प्रजानां सुखदुःखहेतुं ८१ पातयित्वा । ८२ परमेश्वरस्येष्टः । ८३ परमेश्वरप्राप्त्य । ८४ सिद्धान्ती खेष्टं परब्रह्मपरमेष्ठिलक्षणमपरनामसिद्धाख्यं निरूपयति । ८५ दर्शकम् । ८६ लोकानां सम्बन्धिनम् । ८७ पुण्यपापलक्षणं प्रति पुण्यपापयोस्तस्य दर्शकत्वे तयोस्तत्तत्फलवत्वं स्यात यथा साक्षिणि सति पुण्यपापयोः फलाफलोपलम्भः सुलभो भवति लोका अपि वदन्ति सर्व कृतं शुभाशुभं भगवान् वेत्तीति तात्पर्यार्थः।