________________
(४६) श्वेत्तानि रुच्यै यदि सन्ति तस्मै ॥ ५४ ।। एतानि यस्मै रुचये भवन्ति स नेदृशीं जातु करोति लीलाम् । लोकेऽपि जीवादिकघातनोत्था लीला निषिद्धास्ति समैव तेन ॥ ५५ ॥ अन्यान्निषेधन्पुनरात्मना सृजंस्तदा स को ऽतीव विनिन्दितः स्यात् ।। एवं त्वनालोचनकर्मकारं वयं न कर्तारमिमं वदामः ॥ ५६ ॥ यत्त्वदचोन्यासभरैः स कर्ता। पूतः स्वयं स्वीयजनान्पुनानः । ज्योतिर्मयाद्योत्थगुणै विशिष्टः सो ऽपि स्वकांशान्स्वरसादिमोहे ॥ ५७ ॥ संसारभावे विरचय्य सद्यो जीवत्वमेवं बहुदुःखपात्रं ।
नुदत्ययं चेन्नहि तर्हि कर्तृ.. रंशा इमे प्राणभृतो ऽपरे यत् ॥ ५८ ॥
७७ तपःप्रभृतीनि । ७८ जनानां दुःखदानरागद्वेषादिविधानसंहारादिकाम् । ७९ प्रागेव ब्रह्मलक्षणसदृशलक्षणः त्वदुक्तकत्ता । ८० स्वकीयात् कस्माचिल्लीलादिरसात् ।