________________
( ३८ )
अथ स्वभावादथ कालतो वा सृष्टिं तो नास्ति विभोरखतिः । स्वभावकालौ यदि चे बलिष्ठौ ब्रह्माप्यशस्ते नुदतः क्षये ऽस्मिन् ॥ २४ ॥ एतौ तदेवात्र च हेतुभूतौ किं ब्रह्मणा युक्त्यस कार्यम् । तद्ब्रह्मणः सृष्टिविधिं तथैव संहारकत्वं च वदन्ति ये तैः ॥ २५ ॥ न महिमा प्रकटीकृतः किं निर्दूषणे दूषणमादधे यत् । वन्ध्या ममाम्बेति समं निगद्यते यनिष्क्रियं ब्रह्म निगद्य कत्रिति ॥ २६ ॥ येsपि विज्ञानभृतो भवन्ति सर्वे च ते ब्रह्म विचिन्तयन्ति । ब्रह्मांशकास्ते यदि को sस्ति भेदः
२४
२१ पापाप्तिः | २२ यदेव ब्रह्म निरञ्जननिः क्रियनिर्गुणनिस्पृहादिगुणविशिष्टमुक्त्वा तदेव ब्रह्म कर्तृसंहर्तृरागद्वेषिसर्वसंसारप्रवर्तकमुच्यते इति निर्दूपणे ब्रह्मणि दूषणं स्थापितमिति तेषां वचो अस्मन्मनो न रञ्जयति किमुच्यते अथ च तैः परस्परविरोधि वचो अङ्गीकृतं तदेवाह । २३ विशिष्टज्ञानवन्तो योगीश्वराः । २४ ते योगीश्वराः ।