________________
( ३३ ) सत्केवलज्ञानविशिष्टदृष्टयो नीरागिणो ऽन्योपकृतौ परायणाः ॥ ४ ॥ ते त्वीदृशं ब्रह्म परं न्यवेदयन् निर्विक्रियं निष्क्रियमप्रतिक्रियम् । ज्योतिर्मयं चिन्मयमीश्वराभिधमानन्दसान्द्रं जगतां निषेवितम् ॥ ५ ॥ निर्माय निर्मोहमहंकृतिच्युतं सम्यग्निराशंसमनीहितार्चनम् । महोदयं निर्गुणमप्रमेयकं पुनर्भवप्रोज्झितमक्षरं यतः ॥ ६ ॥ विभु प्रभावत्परमेष्ट्यनन्तकं निर्मत्सरं रोधविरोधवर्जितम् । ध्यानप्रभावोत्थितभक्तनिवृति निरञ्जनानाकृति शाश्वतस्थिति ॥ ७ ॥ एवंविधं ब्रह्म तदेव तत्कथं हेतुर्भवेत्सृष्टिकुलालकर्मणि । प्रयोजको ब्रह्मण एव नास्ति यस्वस्मिन्गतत्वात्सकलस्य वस्तुनः ॥ ८॥ ८९ निःस्पृहं । ९० अवाञ्छितपूजनं । ९१ सत्वादिगुणत्रयरहितं । ९२ व्यापकं ९३ अनाकारं । ९४ सर्जनरूपं यत्कुलालकर्म कुम्भकारक्रिया तत्र । ९५ ये तु परब्रह्म कर्तु वदन्ति तेषां मते