________________
( ३२ )
अथ अष्टमोऽधिकारः ॥
स्वीमिन्परब्रह्म किमुच्यते तत् लीनं जगद्यत्र भवेद्युगान्ते । तदेव हेतुः पुनरेव सृष्टेः
स्यादीदृशं केन गुणो न वाच्यम् ॥ १ ॥ निशम्यतामार्य मनीपिणामपि सिद्धान्तवेदान्तविचारखेदिनाम् । स्वरूपमेतस्य निवेदितुं यतो
वाचः स्फुरन्तीह न चर्मचक्षुपाम् ॥ २ ॥ ये योगिनो" निर्मलदिव्यदृष्टयश्ररौचराचारविवेकचिन्तकाः । लव्धाष्टसिद्धिप्रथना हि ते ऽप्यहो विचारयन्तो न हि पारमिर्यति ॥ ३ ॥ तथापि ये लोकविलोकनक्षमाः सर्वार्थयाथार्थ्य समर्थनार्थनाः ।
८१ अथ ब्रह्मवादी जैनं प्रति ब्रह्मखरूपं पृच्छति । ८२ पुनस्तदेव सृष्टेः सर्जनकार्यस्य कारणं स्यादित्युच्यते । ८३ ब्रह्मणः । ८४ योगाभ्यासकर्त्तारः । ८५ जङ्गमस्थावर । ८६ एतस्य ब्रह्मणः । ८७ चतुर्दशरज्ज्वात्मक लोकदर्शनसमर्थाः । ८८ सर्वे ये ऽर्थाः पदार्थाः द्रव्यांणीति यावत् तेषां यत् याथाभ्यं सत्यता तस्य समर्थनं सम्पादनं तस्यार्थनं प्रार्थनं येभ्यस्ते ।