________________
( २४ ), सुखीति भूयः प्रतिगद्यते ऽतः। तज्ज्ञानसौख्यं हि स एव वेत्ति न ज्ञानहीनो गदितं समर्थः ॥ १६ ॥ इत्थं हि सिद्धेषु विनेन्द्रियार्थेस्तथा क्रियाभिः सुखमस्त्यनन्तम् । त एव तत्सौख्यभरं विदन्त्यपि ज्ञानी न शक्तो वदितुं यतोऽसमम् ॥ १७ ॥ इति जैनतत्त्वसारे जीवकर्मविचारे सूरचन्द्रमनःस्थिरीकारे सिद्धात्मनः कर्मानादानोक्तिलेशः पञ्चमो ऽधिकारः ॥
३८ भृशं । ३९ वुद्धीन्द्रियक्रियेन्द्रियसमुत्पनगोचरैर्विना । ४० क्रियाभिः मनोवाकायजनिताभिर्विनाइत्यर्थः। ४१ ते एव सिद्धा एव ।