________________
तथा च कर्माणि तु कीदृशानि जडानि रूपीणि चयाचयीनि ॥२॥ जीवाः पृथिव्यादिमसूक्ष्मवृद्धनिगोदभिन्ना हि भवन्त्यनन्ताः। नानाविधावाप्तसजातियोनिभिन्नाः समस्ताः किल केवलीक्ष्याः॥ ३ ॥ कर्माणि तेभ्यो यदनन्तकानि समग्रलोकाम्बरसंस्थितानि । घनं किमङ्गयेकतरप्रदेशे ऽप्यनन्तसङ्खयानि शुभाशुभानि ।। ४ ।। अनन्तसङ्ख्याः किल कर्मवंगणा जीवप्रदेशे परिकल्प्य ऐकके । शुभाशुभाः केवलदृष्टिदृष्टा
मुक्ता अमूभ्यः खलु ते हि सिद्धाः ॥ ५॥ ९ पुरणगलनस्वभावानि । १० जीवाः कथम्भूताः । पृथिवी आदिमादिर्येषां ते पृथिव्यादिमाः पटकायिकास्ते च ते सूक्ष्माश्च वृद्धाश्च ते ' तथा । विशेषणविशेष्यभावस्य विवक्षानिवन्धनत्वात् सूक्ष्मद्धशन्दयोविशेष्यतयोपादानेन परनिपातो ऽतः पृथिव्यादयो द्विधा सूक्ष्मा वादराश्च । निगोदा हि निगोदसज्ञावंतस्तेऽपि सूक्ष्मा वादराश्च । तैर्भेईभिन्ना येते तथा । यद्वात्र सूक्ष्मद्धशब्दौ पृथिव्यादिमनिगोदशब्दयोरन्तरस्थिती डमरुकमणिवत् पृथिव्यादिषु निगोदेषु योज्यौ । ११ एकस्य जीवस्यासङ्घयाताः तेषामेकस्मिन्नपि मनोवुद्धया परिकल्प्ये.