________________
जैनतत्त्वसार
श्रीगुरुभ्यो नमः
संशुद्धसिद्धान्तमधीशमिद्धं श्रीवर्धमानं प्रणिपत्य सत्यम् ।
कर्मात्मपृच्छोत्तरदानपूर्व
किञ्चिद्विचारं स्वविदे समूहे ॥ १ ॥ आत्मायमार्याः किल कीदृशोऽस्ति नित्यो विर्भुश्वेतनवानरुपी |
1
१ निर्दोषम् । २ अतिशयैदतं । ३ स्वज्ञानायं । ४ विचारयामि । ५ यद्यप्यात्मा द्रव्यास्तिकनयान्नित्यः पर्यायास्तिकनयादनित्यो देवाद्यन्यतरव्यपदेशलाभात् । परमिह तु सकर्माकर्मकरूप सर्वजीवद्रव्यग्रहणोपयोगान्नित्यत्वेन ग्रहणं । ६ व्यापकः केवलिसमुद्घातादौ सर्वकोकाकाशव्यापकत्वात् अन्यथा तु स्वकायमात्र व्याप्तत्वादपि विभुः । • चेतनापि द्वेधा सावरणनिरावरणभेदात् । सावरणज्ञानं यथासम्भवं केवलादर्वा गन्यत्सर्वं । केवलज्ञानं हि निरावरणं । इह हि चेतनामात्रग्रहणात्सर्वजीवसम्बन्धिज्ञानं गृह्यते तेन सर्वमपि जीवद्रव्यं चेतनवदिति चेतनावान् जीव उच्यते । ८ रूपं सततमस्यास्तीति रूपी सर्वोऽपि
धर्मा पदार्थः । न रूपी अरूपी अपुद्गलधर्मा जीवः । यद्यपि मैनसकार्मणशरीरसङ्गतो जीवः सातिशयज्ञानवतां रूपितया प्रत्यक्षस्तथापि चर्मचक्षुषां निरतिशय मानवतामव्यभवाभाप्तयाऽरूपीत्युच्यते ।