________________
( १४२ ) ॥अथ एकविंशोऽधिकारः॥
reir winne- . अमुं विचारं मुनयः पुरातना ग्रन्थेषु जग्रन्थुरतीव विस्तृतम् । परं न तत्र द्रुतमल्पमेधसा*मैदंयुगीनानां मतिः प्रसारिणी ॥ १ ॥ मया परप्रेरणपारवश्यादजानतापीति विधृत्य धृष्टताम् । प्रश्ना व्यतायन्त कियन्त एते परेण पृष्टाः पठितोत्तरोत्तराः ॥२॥ शैवेन केनापि च जीवकर्मणी आश्रित्य पृच्छाः प्रसभादिमाः कृताः। माभूज्जिनाधीशमतावहेलेत्यवेत्य मक्षुत्तरितं मयैवम् ॥ ३॥ यथा यथा तेन हृदुत्थतर्कमाश्रित्य पृच्छाः सहसा क्रियन्त । तथा तदुक्तं पुरतो निधाय मया व्यतार्युत्तरमाईतेन ॥ ४ ॥ मया विदं केवललौकिकोक्तिप्रसिद्धमाधीयत पृष्ठशासनम् । .
* मैदंयुगीना न ?