________________
( १४१ )
सैषा क्रिया सिद्धिगतेषु नास्ति । कथं यतः सैषु यदा तु लोके कैवल्यलब्धिः समभूत्तदानीम् ॥ ३७ ॥ किये इमे युगपत्समास्तां ये ज्ञेयदृश्ये इह ते अभूतां । ततो नृजात किल सत्क्रियत्वमभूत्तु सिद्धौ खलु निष्क्रियत्वम् ॥ ३८ ॥ एवं तु निष्क्रियता प्रसिद्धा सिद्धेषु सिद्धास्त्यवधारणेन । सर्वस्य चैतस्य मनोनिरोधो हेतुस्ततोऽत्रैव रमध्वमध्वनि ॥ ३९ ॥
इति जैनतत्त्वसारे जीवकर्मविचारे सुरचन्द्रमनः स्थिरीकारे आस्तिकनास्तिकानां द्वयेषामपि परम्परया मनोनिर्विषयतापादनेन च मुक्तिमापणकारणोक्तिलेशो विंशोऽधिकारः ||
३५ केवलज्ञान । ३६ पुनरत्र नोदको नोदयन्नाह, पूज्याः सिद्धा अपि सक्रिया भवन्ति, कथं, यत उच्यते, सिद्धा जानन्ति पश्यन्ति च तर्हि ज्ञानक्रियां च दर्शनक्रियां च कुर्वन्तीति ज्ञानदर्शन क्रियायाः सद्भावात कथं निष्क्रियत्वमिति निष्क्रियाः सिद्धा इति न घटते । नैवं यदैवात्र मनुष्यभवे सिद्धस्य केवलज्ञानमभूत्तदैव यज्ज्ञातव्यं यच्च द्रष्टव्यमासीत्तदैवाभूत् सिद्धत्वावस्थायां नवं किमपि न जानाति न पव्यति सर्वा - तीतानागतवर्तमानभावानां केवललाभसमये एवं ज्ञानादर्शनाच्चेति सर्वं सम्यक्तया ध्येयम् ।