________________
(१२८ ) ये योगिनो द्रव्यपरिग्रहेण विना विभान्तीह भवे महान्तः। तेषां त्वैधीशस्मृतिरेव युक्ता तयैव तत्स्वार्थकृतिः समस्ता ॥ २३ ॥ यथा विषंगारुडहंसजागुलीमन्त्रस्य जापाच्छ्रवणाच देहिनाम् । मूर्छावतां तत्त्वमजानतामपि विनश्यतीत्थं भगवत्स्मृतेरघम् ॥ २४ ॥ तथाऽस्थिभक्षीति हुमायपक्षी
८५ भगवत् । ८६ अधीशस्मृत्या । ८७ तेषां योगिनां स्वार्थसिद्धिः सर्वापि भवेत् । ८८ ननु योगिनः सम्यग्भगवत्स्वरूपं यथास्थितं न विदन्ति भगवानपि निःस्पृहो नीरागश्च ततः केवलं भगवस्मृत्या एव योगिनां किं सिध्यदित्याह यथा विपमिति । ननु भगवद्ध्यायका योगिनस्तु यदि भगवत्स्वरूपं न जानन्ति परं भगवास्तु जानाति अयं ध्याता मां ध्यायति एवं गारुडिको गारुडादिमन्त्रान्वेत्ति परं विषातौ यद्यपि गारुडादिमन्त्रस्वरूपं न जानाति तथाप्यस्य गारुडिकायुक्तगारुडादिमन्त्रप्रयोगाद्विषनाश एवं योगिनोऽपि सम्यग्भगवज्ज्ञानाभावेऽपि भगवन्नामाक्षरप्रभावात् दुष्कर्मक्षये पापं भश्यतीति एवमेकपक्षभूतेऽपि ज्ञानेऽभीष्टसिद्धिः । ८९ आस्तामेक पक्षजमपि ज्ञानमुभयपक्षविकलेऽपि ज्ञाने संयोगमात्रादपीष्टसिद्धिर्यथा हुमायपक्षिणो यस्य शिरसि छाया निपतति स पातसाहिर्भवति तत्र हुमायोऽपि न वेत्ति यदस्य शीर्षेऽहं छायां करोमि यस्य शीर्षे छाया भवेत्सोऽपि न वेत्ति मम शीर्षे हुमायः छायां करोत्येवं