________________
( ११४ ) मूत्ति प्रभुर्मानयतोऽवसाय । तुष्यत्यसौ तेषु तथैवमीशो ऽर्चितो भवेत्तत्प्रतिमार्चनात्स्यात् ॥ २३ ॥ सत्यं बुधैतत्परमत्र यस्माविशेष एषो ऽभिनिरीक्ष्यते महान् । देवा यदेते किल सन्ति रागिणः पूजार्थिनो नो भगवान्स ईदृशः ॥ २४ ॥ तदात्वतीवास्तु वरं यतः स्यादनीहसेवा परमार्थसिद्धये। यथाहि सिद्धस्य च कस्यचिदा स्पृहावतः सेवनमिष्टलब्धये ॥ २५ ॥ सिद्धस्तु साधो वरिवर्ति साक्षादैशी त्वजीवा प्रतिमा प्रतिष्ठिता। नायं विचारः परिपूजनीये द्रव्ये यतः पूज्यत एव पूज्यः ॥ २६ ॥ यदक्षिणावर्तककामकुम्भचिन्तामणिचित्रकवल्लिमुख्याः।
कानीन्द्रियाणीह वहन्ति यत्ते 7 ऽचिंताः प्रकुर्वन्ति मतं जनानाम् ॥ २७ ॥
वस्तुस्वभावाचदमी अजीवाः स्वतोऽस्पृहावन्त इहाङ्गिकामान् ।