________________
(११३ ) सत्योऽपि तत्पूजनतस्तदीयम् । गुणं ददत्येव तथा सतीनां क्षेत्राधिपानामथ पूर्वजानाम् ॥ १८ ॥ विधेर्मुरारेश्च शिवस्य शक्तेयाः स्थापनास्ता अहिता हिता वा । अमानिताश्चाप्यभिमानिताः स्युः स्तूपं तथा वा फलवन किं स्यात् ॥ १९ ॥ रेवन्तनागाधिपपश्चिमेशश्रीशीतलादिप्रतिमा अजीवाः । संपूजितास्तद्गतकार्यसिद्धिं कुर्वन्ति यदच्च तथाऽधिपाँर्चा ॥ २० ॥ ये कार्मणाकर्षणवेदिनस्तथा नाम्नैव येषां मदनादिपुत्रके । निर्जीवके तं विधिमाचरन्त्यहो यस्मात्सजीवानपि मूर्छयन्ति तान् ॥ २१ ॥ एवं निजेशप्रतिमामजीवां तन्नामग्राहं स्तवनां विधाय। समर्चयद्भिः कुशलैः सपयाँ सम्प्रापितो ज्ञानमयः प्रभुः स्यात् ॥ २२ ॥ तथा "नियोज्यानपि कांश्चिदात्मनो २६ पितृणाम् । २७ यथा । २८ स्वामि- । २९ सेवकान ।
-
-
-
१५