________________
जैन स्वाध्यायमाला
३४३
विमुक्तिमार्गप्रतिपादको यो, यो जन्ममृत्युव्यसनाद्व्यतीतः । त्रिलोकलोकी विकलोऽकलङ्क, स देवदेवो हृदये ममास्ताम् ।७। क्रोडीकृताशेषशरीरिवर्गा , रागादयो यस्य न सन्ति दोषा. । निरिन्द्रियो ज्ञानमयोऽनपाय , स देवदेवो हृदये ममास्ताम् ।। यो व्यापको विश्वजनीनवृत्ति , सिद्धो विबुद्धो धुतकर्मबन्ध. । ध्यातो धुनीते सकल विकारं स देवदेवो हृदये ममास्ताम् ।। न स्पृश्यते कर्मकलङ्कदोषैः, यो ध्वान्तसंधैरिव तिग्मरश्मिः । निरञ्जन नित्यमनेकमेकं, तं देवमाप्तं शरण प्रपद्ये ।१०। विभासते यत्र मरीचिमालि, न्यविद्यमाने भवनावभासि । स्वात्मस्थितं बोधमयप्रकाशं, तं देवमाप्त शरणं प्रपद्ये ।११। विलोक्यमाने सति यत्र विश्वं, विलोक्यते स्पष्ट मिद विविक्तम् । शुद्ध शिवं शान्तमनाद्यनन्त, तं देवमाप्त शरणं प्रपद्ये ।१२। येन क्षता मन्मथमानमूर्छा-विपादनिद्राभयशोकचिन्ता । क्षय्योऽनलेनेव तरुप्रपञ्च-स्त देवमाप्त शरण प्रपद्ये ।१३।
प्रतिक्रमण-(प्रभु समीपे स्वात्मचिन्तन) विनिन्दनालोचनगर्हणरह, मनोवच कायकषायनिर्मितम् । निहन्मि पाप भवदु खकारणं,भिषग्विष मन्त्रगुणैरिवाखिलम् ।१४। अतिक्रमं यं विमतेर्व्यतिक्रम, जिनाऽतिचार सुचरित्रकर्मणः । व्यधामनाचारमपि प्रमादत ,प्रतिक्रम तस्य करोमि शुद्धये ॥१५॥ न संस्तरोऽश्मा न तृणं न मेदिनी,विधानतो नो फलको विनिर्मित । यतो निरस्ताक्षकषायविद्विष ,सुधोभिरात्मैव सुनिर्मलो मतः ॥१६॥ न संस्तरो भद्र | समाधिसाधन, न लोकपूजा न च संघमेलनम् । यतस्ततोऽध्यात्मरतोभवाऽनिश,विमुच्य सर्वामपि बाह्यवासनाम्।।