________________
३४४
चिंतामणि पार्श्वनाथ स्तोत्रम्
न सन्ति बाह्या मम केचनार्था., भवामि तेषा न कदाचनाहम् । इत्थ विनिश्चित्य विमुच्य बाह्य, स्वस्थ सदा त्वं भव भद्र | मुक्त्यै ।। अात्मानमात्मन्यविलोक्यमान-स्त्व दर्शनज्ञानमयो विशद्ध एकाग्रचित्त खलु यत्र तत्र, स्थितोपि साधुर्लभते समाधिम् ॥१६॥ एक सदा शाश्वतिको ममात्मा, विनिर्मल साधिगमस्वभाव , बहिर्भवा सन्त्यपरे समस्ता ,न शाश्वता कर्मभवा स्वकीया ।२०। यस्यास्ति नैक्य वपुपापि साद्धं, तस्यास्ति किं पुत्रकलत्रमित्र, पृथक्कृते चर्मणि रोमकूपा , कुतो हि तिष्ठन्ति शरीरमध्ये ।२१। संयोगतो दुखमनेकभेद, यतोऽश्नुते जन्मवने शरीरो, ततस्विधासौ परिवर्जनीयो, यियासुना निर्वतिमात्मनीनाम् ।२२। सर्व निराकृत्य विकल्पजाल, ससारकान्तारनिपातहेतुम् । विविक्तमात्मानमवेक्ष्यमाणो, निलीयसे त्व परमात्मतत्त्वे ।२३। स्वय कृतं कर्म यदात्मनापुरा, फलं तदीय लभते शुभाशुभम् , परेण दत्त यदि लभ्यते स्फुटं, स्वयकृतं कर्म निरर्थकं तदा ।२४। विमक्तिमार्गप्रतिकूलवर्तिना, मया कषायाक्षवशेन दुधिया, चारित्रशुद्धेर्यदकारि लोपन, तदस्तु मिथ्या मम दुप्कृत प्रभो ! २५
॥ चिन्तामणि पार्श्वनाथ स्तोत्रम् ॥ किं कर्पूरमय सुधारसमन किं चन्द्ररोचियं । किं लावण्यमय महामणिमयं, करुण्यकेलिमयम् ।। विश्वानन्दमय महोदयमयं शोभामयं चिन्मयं । शुक्लध्यानमय वपुर्जिनपतेर्भूयाद्भवालम्बनम् ।१।