________________
जैन स्वाध्यायमाला
३४१
प्रकाशित तद्भवतो हियैव, सर्वज्ञ । सर्व स्वयमेव वेत्सि ।११ ध्वस्तोऽन्यमन्त्र. परमेष्ठिमन्त्र कुशास्त्रवाक्यनिहतागमोक्ति.। . कर्तुं वृथा कर्म कुदेवसंगा-दवाञ्छि हि नाथ । मतिभ्रमो मे ।१२। विमुच्य दुगलक्ष्यगत भवन्तं, ध्याता मया मूढधिया हृदन्त. । कटाक्षवक्षोजगभीरनाभी, कटीतटीयाः सुदृशा विलासा.।१३। लोलेक्षणावक्त्रनिरीक्षणेन, यो मानसे रागलवो विलग्न । न शुद्धसिद्धातपयोधिमध्ये, धौतोप्यगात्तारक कारणं किं ।१४। अग न चग न गणो गुणाना, न निर्मल कोऽपि कलाविलास । स्फुरत्प्रभा न प्रभुता च कापि, तथाप्यहकारकर्थितोऽहं ।१५॥ आयुगलत्याशु न पापबुद्धि-र्गत वयो नो विषयाभिलाष । यत्नश्च भैषज्यविधी न धर्म, स्वामिन्महामोहविडम्बना मे :१६। नात्मा न पुण्य न भवो न पापं, मया विटाना कटुगीरपीयं । अधारि कर्णे त्वयि केवलार्के, परिस्फुटे सत्यपि देव धिग्माम् ।१७। न देवपूजा न च पात्रपूजा, न-श्राद्धधर्मश्च न साधुधर्म । लब्ध्वापि मानुष्यमिद समस्त, कृत मायाऽरण्यविलापतुल्यं ।१८॥ चक्रे मया सत्स्वऽपि कामधेनु-कल्पद्रुचिन्तामणिषु स्पृहात्ति । न जैनधर्मे स्फुटशर्मदेऽपि, जिनेश-मे पश्य विमूढ भाव ।१६। सद्भोगलीला न च रोगकोला, धनागमो नो निधनागमश्च । दारा न कारा नरकस्य चित्ते, व्यचिन्ति नित्य मयकाऽधमेन ।२०। स्थितं न साधोह दि साधुवृत्तात्, परोपकारान्न यशोऽजित च । कृतं न तीर्थोद्धरणादिकृत्यं, मया मुधा हारितमेव जन्म ।२१॥ वैराग्यरगो न गुरूदितेषु, न दुर्जनाना वचनेषु शान्ति । नाध्यात्मलेशो मम कोऽपि देव, तार्य.कथङ्कारमयम्भवाब्धि ।२२।