________________
३४०
रन्ताकरपञ्चविंशतिः
॥ रत्नाकरपञ्चविंशतिः॥ श्रेयः श्रियां मंगल के लिसद्म !, नरेन्द्रदेवेन्द्रनताघ्रिपद्म ! । सर्वज्ञ ! सर्वातिशयप्रधान !, चिरञ्जयज्ञानकलानिधान ! ११ जगत्त्रयाधार ! कृपावतार !, दुर्वारसंसारविकारवैद्य ! श्रीवीतराग ! त्वयि मुग्धभावा द्विज्ञ प्रभो विज्ञपयामिकिचित् ।२। किं वाललीलाकलितो न वाल , पित्रो पुरो जल्पति निर्विकल्प. । तथा यथार्थ कथयामि नाथ !, निजाशयं सानुशयस्तवाने ।३। दत्त न दान परिशीलितं च, न शालि शील न तपोऽभितप्तम् । शभो न भावोऽप्यभवद भवेऽस्मिन, विभो मया भ्रातमहो मधेव। दग्धोऽग्निना क्रोधमयेन दष्टो, दुष्टेन लोभाख्यमहोरगेण ।। ग्रस्तोऽभिमानाजगरेण माया-जालेन वद्धोऽस्मि कथ भजे त्वां ।। कृत मयाऽमुत्र हितं न चेह, लोकेऽपि लोकेश ! सुखं न मेऽभूत् ।। अस्मादशा केवलमेव जन्म, जिनेश | जज्ञे भवपूरणाय ।६। मन्ये मनो यन्न मनोज्ञवृत्त ' , त्वदास्यपीयूप मयूखलाभात् । द्रुतं महानन्दरस कठोर-मस्मादृशा देव तदरमतोऽपि ।७। त्वत्त सुदुष्प्राप्यमिद मयाऽऽप्तं, रत्नत्रयं भरिभवभ्रमेण । प्रमादनिद्रावशतो गतं तत्, कस्याऽग्रतो नायक | पूत्करोमि 1८! वैराग्यरग परवञ्चनाय, धर्मोपदेशो जनरञ्जनाय । वादाय विद्याऽध्ययन च मेऽभुत्,कियद् ववे हास्यकर स्वमीश ! ६। परापवादेन मुख सदोपं, नेत्र परस्त्रीजनवीक्षणेन । चेतः परापायविचिन्तनेन, कृत भविष्यामि कथं विभोऽहं ।१०। विडम्बितं यत्स्मरघस्मरात्ति-दशावशात्स्व विषयाधलेन ।