________________
जैन स्वाध्यायमाला
३३१
त्वं नाथ | दुखिजनवत्सल । हे सरण्य 1, कारुण्यपुण्यवसते । वशिना वरेण्य ! | भक्त्या नते मयि महेश ! दयां विधेय, दुखाकुरोद्दलनतत्परता विधेहि |३६| नि सङ्ख्यसारशरण शरणं शरण्यमासाद्य सादितरिपुप्रथितावदातम् । त्वत्पादपङ्कजमपि प्रणिधानवन्ध्यो, वध्योऽस्मि चेद् भुवनपावन । हा हतोऽस्मि |४०| देवेन्द्रवन्द्य ! विदिताखिलवस्तुसार 1
संसार तारक । विभो । भुवनाधिनाथ | | त्रायस्व देव । करुणाहृद ! मा पुनीहि, सीदन्तमद्य भयदव्यसनाम्बुराशेः । ४१ । यद्यस्ति नाथ । भवदङ्घ्रिसरोरुहाणा, भक्ते फल किमपि सन्ततसञ्चिताया । तन्मे त्वदेकशरणस्य शरण्य I भूयाः, स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ॥४२॥ इत्य समाहितधियो विधिवज्जिनेन्द्र, सान्द्रोल्लसत्पुलककञ्चुकितागभागाः । त्वद्विम्व निर्मल मुखाम्बुजवद्धलक्ष्या, ये सस्तव तव विभो । रचयति भव्या |४३| जननयनकुमुदचद्र-प्राभास्वरा स्वर्गसंपदो भुक्त्वा । ते विगलितमलनिचया, अचिरान्मोक्षं प्रपद्यन्ते |४४ |
-