________________
कल्याणमन्रिस्तोत्रम्
प्रालम्बभद्भयदवक्त्रविनियंदग्निः । प्रेतवजः प्रतिभवन्तमपीरिलो य, सोऽस्याऽभवत्प्रतिभव भवदु खहेतुः ॥३३॥ धन्यास्त एवभुवनाधिप ! ये त्रिसन्ध्यमाराधयन्ति विधिवद्विधुतान्यकृत्याः । भक्त्योल्लसत्पुलकपक्ष्मलदेहदेशाः !, पादद्वय तव विभो । भुवि जन्मभाज: ।३४। अस्मिन्नपारभववारिनिधो मुनीश !, मन्ये न मे श्रवणगोचरता गतोऽसि । प्राकणिते तु तव गोत्रपवित्रमन्त्रे, किं वा विपद्विषधरी सविध समेति । जन्मातरेऽपि तव पादयुग न देव !, मन्ये मया महितमीहितदानदक्षम् । तेनेह जन्मनि मुनीश ! पराभवानां, जातो निकेतनमहं मथिताशयानाम् ।३६। नून न मोहतिमिरावृतलोचनेन, पूर्व विभो ! सकृदपि प्रविलोकितोऽसि । मर्माविधो विधुरयन्ति हि मामनाः, प्रोद्यत्प्रवन्धगतय कथमन्यथते ? १३७ आकर्णितोऽपि महितोऽपि निरीक्षितोऽपि, नूनं न चेतसि मया विधुतोऽसि भक्त्या । जातोऽस्मि तेन जनवान्धव ! दुःखपात्रं, यस्माक्रिया. प्रतिफलन्ति न भावशून्या ।३८