________________
जन स्वाध्यायमाला
कल्पान्तवान्तफ्यसः प्रकटोऽपि यस्मान्मीयेत केन जलधेर्ननुरत्नराशि ? ।४। अभ्युद्यतोऽस्मि तव नाथ ! जडाशयोऽपि, कर्तुंस्तवं लसदसङ्ख्यगुणाकरस्य ? । बालोऽपि किं न निजवाहुयुग वितत्य । विस्तीर्णता कथयति स्वधियाऽम्बुराशे ? 1५। ये योगिनामपि न यान्ति गुणास्तवेश, वक्तुं कथ भवति तेषु ममावकाशः ? । जाता तदेवमसमीक्षितकारितेयं, जल्पन्ति वा निजगिरा ननु पक्षिणोऽपि ।६। आस्तामचिन्त्यमहिमा जिन ! सस्तवस्ते, नामापि पाति भवतो भवतो जगन्ति । तीव्रातपोपहतपान्थजनान्निदाघे, प्रीणाति पद्मसरस सरसोऽनिलोऽपि ।७। हृत्तिनि त्वयि विभो । शिथिलीभवन्ति, जतो. क्षणेन निविडा अपि कर्मबन्धाः । सद्यो भुजङ्गममया इव मध्यभागमभ्यागते वनशिखण्डिनि चन्दनस्य ।। मुच्यत एव मनुजा सहसा जिनेन्द्र, रोद्ररुपद्रवशतैस्त्वयि वीक्षितेऽपि । गोस्वामिनि स्फुरिततेजसि दृष्टमात्रे, चोरैरिवाशु पशव प्रपलायमानै ६। त्व तारका जिनः ! कथं भविना त एव,