________________
३३४
कल्याणमदिर स्तोत्रम्
त्वामुद्वहन्ति हृदयेन यदुत्तरन्त । यद्वा दृतिस्तरति यज्जलमेप नूनमन्तर्गतस्य मरुत स किलानुभाव ।१०। यस्मिन् हरप्रभृतयोऽपि हतप्रभावाः, सोऽपि त्वया रतिपति क्षपित. क्षणेन । विध्यापिता हुतभज पयसाथ येन, पीतं न किं तदपि दुर्धरवाडवेन ? ११॥ स्वामिन्ननल्पगरिमाणमपि प्रपन्नास्त्वा जन्तव कथमहो हृदये दधाना• ? । जन्मोदधि लघु तरन्त्यतिलाघवेन, चिन्त्यो न हन्त महता यदि वा प्रभाव ।१२। क्रोधस्त्वया यदि विभो । प्रथम निरस्तो. ध्वस्तास्तदा वत कथं किल कर्मचौरा. ? प्लोपत्यमत्र यदि वा शिशिराऽपि लोके. नीलद्रुमाणि विपिनानि न कि हिमानी ।१३। त्वा योगिनो जिन | सदा परमात्मरूपमन्वेपयन्ति हृदयाम्बुजकोशदेशे। पूतस्य निर्मलरुचेर्यदि वा किमन्यदक्षस्य सम्भवि पदं ननु कणिकाया ।१४। ध्यानाज्जिनेश ! भवतो भविन. क्षणेन, देहं विहाय परमात्मदशा ब्रजन्ति । तीव्रानलादुपलभावमपास्य लोके, चामीकरत्वमचिरादिव धातुभेदाः ॥१५॥