________________
३३२
कल्याणमन्दिरस्त्रोतम्
यस्तावकं स्तवमिमं मतिमानधीते ॥४७॥ स्तोत्रस्रजं तव जिनेन्द्र ! गुर्णनिवद्धां, भक्त्या मया रुचिरवर्णविचित्र पुष्पाम् । धत्ते जनो य इह कण्ठगतामजस्र, तं मानतुगमवशा समुपैति लक्ष्मीः ॥४८॥
|| कल्याणमन्दिरस्त्रोतम् ॥
कल्याणमन्दिरमुदारमवद्यभेदि, भीताभयप्रदमनिन्दितम घ्रिपद्मम् । ससारसागरनिमज्जदषेषजतुपोतायमानमभिनय जिनेश्वरस्य |१| यस्य स्वयं सुरगुरुर्गरिमाम्बुराशेः, स्तोत्रं सुविस्तृतमतिर्न विभुविधातुम् । तोर्थेश्वरस्य कमठस्मयधूमके तोस्तस्याहमेष किल संस्तवन करिष्ये |२| सामान्यतोऽपि तत्र वर्णयितु स्वरूपमस्मादृशाः कथमधीश ! भवत्यधीशाः । घृष्टोऽपि कौशिक शिशुर्यदि वा दिवान्धो, रूपं प्रपयति किं किल धर्मरश्मेः |३| मोहक्षयादनुभवन्नपि नाय । मर्त्यो, नूनं गुणान् गणयितु न तव क्षमेत ।
·
॥ इति ॥