________________
जैन स्वाध्यायमाला
३२७
किं शर्वरीषु शशिनाऽह्नि विवस्वता वा, युष्मन्मुखेदुदलितेषु तमस्सु नाथ ! । निष्पन्नशालिवनशालिनि जीवलोके, कार्य कियज्जलधरैर्जलभारनम्रः ।१६। ज्ञानं यथा त्वयि विभाति कृतावकाशं, नैवं तथा हरिहरादिषु नायकेषु । तेज स्फुरन्मणिषु याति यथा महत्त्वं, नेव तु काचशकले किरणाकुलेऽपि ।२०। मन्ये वर हरिहरादय एव दृष्टाः , दृष्टेषु येषु हृदय त्वयि तोषमेति । किं वीक्षितेन भवता भुवि येन नान्य , कश्चिन्मनोहरति नाथ भवान्तरेऽपि ॥२१॥ स्त्रीणा शतानि शतशो जनयन्ति पुत्रान्, नान्यासुत त्वदुपमं जननी प्रसूते । सर्वादिशोदधतिभानिसहस्ररश्मि, प्रच्येवदिगजनयति-स्फुरदशुजालम् ।२२। त्वामामनन्ति मुनयः परम पुमासमादित्यवर्णममल तमस परस्तात् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु; नान्य शिव शिवपदस्य मुनीन्द्र ! पन्था ।२३। त्वामव्यय विभुमचिन्त्यमसंख्यमाद्यं, ब्रह्माणमीश्वरमनन्तमनंगकेतुम् । योगीश्वर विदितयोगमनेकमेकं,