________________
३२८
भक्तामरस्तोत्रम्
ज्ञानस्वरूपममलं प्रवदन्ति सन्त |२४| बुद्धस्त्वमेव विबुधाचितबुद्धिवोधात्, त्व शङ्करोऽसि भुवनत्रयशङ्करत्वात् । धाताऽसि धोर ! शिवमार्गविधेविधानात्, व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥ २५॥ तुभ्य नमस्त्रिभुवनात्तिहराय नाथ, तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय. तुभ्य नमो जिन ! भवोदधिशोपणाय |२६| को विस्मयोऽत्र यदि नाम गुणैरशेपैस्त्वसश्रितो निरवकाशतया मुनीश ! | दो पैरुपात्तविविधाश्रयजातगर्वे, स्वप्नातरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥
उचैरशोकतरुसश्रितमुन्मयूख
माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्ततमोवितानं,
विम्बं रवेरिव पयोधरपार्श्ववति |२८| सिंहासने मणिमयूख शिखाविचित्रे, विभ्राजते तव वपु कनकावदात्तम् । विम्बं वियद्विलसदशुलतावितानं, गोदयाद्विशिरसीव सहस्ररश्मे |२६| कुन्दावदातचलचामरचारुशोभं, विभ्राजते तव वपु. कलधौतकान्तम ।