________________
૩૨૬
भक्तामरस्तोत्रम्
नि शेपनिजितजगत्स्त्रितयोपमानम् । विम्बं कलङ्कमलिन क्व निशाकरस्य, यद्वासरे भवति पाण्डुपलाशकल्पम् ।१३। सम्पूर्णमण्डलशशाङ्ककलाकलाप ! शुभ्रा गुणास्त्रिभुवन तव लघयन्ति । ये सश्रितास्त्रिजगदीश्वर ! नाथमेकं, कस्तान्निवारयति सञ्चरतो यथेष्टम् ॥१४॥ चित्रं किमत्र यदि ते त्रिदशागनाभि
त मनागपि मनो न विकारमार्गम् । कल्पान्तकालमरुता चलिताचलेन, किं मन्दरादिशिखरं चलित कदाचित् ।१५॥ निर्धूमवतिरपज्जिततैलपूरः कृत्स्न जगत्त्रयमिद प्रकटीकरोपि । गम्यो न जातु मरुता चलिताचलानां, दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाश. ।१६। नास्त कदाचिदुपयासि न राहुगम्य., स्पष्टीकरोषि सहसा युगपज्जगन्ति । नाम्भोधरोदरनिरुद्धमहाप्रभाव., सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ।१७। नित्योदय दलितमोहमहान्धकारं, गम्य न राहुवदनस्य न वारिदानाम् । विभ्राजते तव मुखान्जमनल्पकान्ति, विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् ।१८।