________________
जैनसिद्धांतसंग्रह। मौजीदण्डकमण्डलुप्रभृतयो नो लाञ्छनं ब्रह्मणो। रुद्रस्यापि नटाकपालमुकुटं कोपीन खट्वांगनाः ॥ . विष्णोश्चकगदादिशङ्खमतुलं वुद्धस्य रकाम्बरं । नग्नं पश्यत वादिनी नगदिदं जैनेन्द्रमुद्राक्रितम् ॥ १२॥ नाहकारक्शी कृतेन मनसा ना द्वपिणा केवलं, . नैरास्यं प्रतिपद्य नश्यति जने कारुण्यबुद्ध्या मया । राज्ञः श्रीहिमशीतलस्य सदसि प्रायो विदग्धात्मनो, बौद्धौघान्सकलान्विजित्य स घटः पादन विस्फालितः॥१३॥ खट्वाङ्गं नैव हस्ते न च हृदि रचितालम्बते मुण्डमाला, भस्माचं नैवशूलं न च गिरिदुहिता नैव हस्ते कपालं । चन्द्राई नैव मूईन्यपि वृपगमनं नैव कण्ठे फणीन्द्रः । तं वन्दे त्यक्तदोष भवभयमथनं चेश्वरं देवदेवं ॥१४॥ किं वाद्यो भगवानभेयमहिमा देवोऽकलङ्कः कलौ, काले यो जनतासुधर्म निहितो देवोऽकलको जिनः । यस्य स्फारविवेकमुद्रलहरी जालेऽप्रमेयाकुला, निर्मग्ना तनुतेतरां भगवती ताराशिरः कम्पनम् ॥ १५ सा वारा खल देवता भगवती मन्यापि मन्यामहे, पण्मासावधि नाड्य सांख्य भगवद्भट्टाकलंकममोः । बा कल्लोल परम्परामिरमते नूनं मनो मज्जन व्यापार सहतेस्म विस्मितमतिः सन्ताडितेतस्ततः ।। १६॥
॥ इति श्री अकरकस्तोत्र सम्पूर्णम् ॥