________________
जैनसिद्धांतसंग्रह।
१६९ . . ये चाष्टांगमहानिमित्त कुशलाश्चाष्टौ विधाश्चारिणः ॥
पंचज्ञानघराश्च येऽपि विपुला ये बुद्धिऋद्धीश्वराः। सप्तैते सकलाश्च ते मुनिवराः कुर्वन्तु ते मंगलम् ॥ ३ ॥ ज्योतिय॑न्तरमावनामरगृहे मेरौ कुलाद्रौ स्थिताः। . जम्बूशाल्मलिचैत्यशखिषु तथा वक्षार.रूप्याद्रिषु ॥ इक्ष्वाकारगिरौ च कुण्डलनगे हीपे च नन्दीश्वरे । शैले ये मनुजोत्तरे जिनमहाः कुर्वन्तु ते मंगलम् ॥ ४ ॥ कैलाशे वृषमस्य निर्वृतिमही वारस्य पावापुरे । चंपायां वसुपूज्य सजिनपतेः सम्मेदशैलेर्हतः॥ .. शेषाणामपिचोर्जयन्ति शिखरे नेमीश्वरस्याहतः । निर्वाणावनयः प्रसिद्ध विभवाः कुर्वन्तु ते मंगलम् ॥ ५ ॥ यो गर्भावतरोत्सवे भगवतां जन्माभिषेकोत्सवे । यो जातः परिनिष्क्रमस्य विभवे यः केवलज्ञानभाक् ॥ या कैवल्यपुर प्रवेशमहिमा संपादिता माविता । कल्याणानि च तानि पंच सततं कुर्वन्तु ते मङ्गलम् ॥६॥ जायन्ते जिन चक्रवर्तिबलमृद्भोगीन्द्रकृष्णादयोः। धर्मादेव दियङ्गनाङ्गविलसच्छश्वयशश्चन्दनाः॥ तद्धीना नरकादियोनिषु नरा दुःख सहन्ते ध्रुवम् । स स्वर्गात् सुखरामनयिकपदं कुर्वन्तु ते मंगलम् ॥ ७॥ सप्पो हारलता भवत्यसिलता सत्पुष्पदामायते । संपधेत रसायनं विषमपि प्रीति विधत्ते रिपुः ।। देवा यान्ति वशं प्रसन्नमनसः किं वा बहु बमहे । धर्मादेवं नभोपि वर्षति नगैः कुवन्तु ते मङ्गलम् ॥ ८॥