________________
७२
जैन सिद्धान्त दीपिका
३. बन्ध - उद्वर्तना - अपवर्तना - सत्ता - उदय - उदीरणा - संक्रमण - उपशमनिघत्ति -निकाचनास्तदवस्था' ।
एतासु अष्टी करणशब्दवाच्याः । यदाहबंधण संकमणुब्वट्टणा, अववट्टणा उदीरणया । उवसामणा निहत्ति निकायणा चत्ति करणाहं ॥ बन्धोऽनन्तरं वक्ष्यते ।
कर्मणां स्थित्यनुभागवृद्धिः - उद्वर्तना । स्थित्यनुभागहानिः - अपवर्तना ।
अबाधाकालो विद्यमानता च - सत्ता । उदयोद्विविधः ।
यत्र फलानुभव: स विपाकोदयः । केवलं प्रदेशवेदनम् — प्रदेशोदयः ।
नियतकालात् प्राक् उदय: - उदीरणा, इयं चापवर्तनापेक्षिणी ।