________________
भूमिका
दर्शनस्य प्रतिपाद्यमस्ति सकलं विश्वम् । इदं विश्वं सदात्मक विद्यते । यत् सन् तत् त्रिगुणात्मकं भवति-उत्पादव्ययधोव्यात्मकं भवति । गौतमगणधरेण पृष्टं--भगवन ! कि तत्त्वम् ? भगवान् महावीरः प्राह-यदुत्पद्यते तत् तत्त्वम् । पुनः पृष्टं-भगवन् ! कि तत्त्वम् ? भगवान प्राह- यद् व्येति तत् तत्त्वम् । जिज्ञासा नोपशान्ता। पुनरपि पृष्टं-भगवन् ! कि तत्त्वम् ? भगवानुवाच- यद् ध्रुवं तत् तत्त्वम् । भगवन् ! कि त्रीणि तत्त्वानि ? भगवानाह-नो त्रीणि तत्त्वानि किन्तु एतत् त्रयात्मकं तत्त्वम् । नोत्पादशून्यो व्ययः, न च व्ययशून्य उत्पादः । न च उत्पादव्ययशून्यं ध्रौव्यम, नर्थव न च धोव्यशून्यावुत्पादव्ययो । यदुत्पद्यते, यद व्यति, यद् ध्रुवं तिष्ठति तत् तत्त्वम् । जनदर्शनमस्य त्रयात्मकम्य तत्त्वस्य व्याख्यां करोति । तत्र यत्किंचिदपि सद्रूपेण सम्मतमस्ति तदनकान्तनिरपेक्ष नास्ति । तत्र च यत्किंचिदपि प्रतिपादितमम्ति तत् म्यादवादनिरपेक्षं नास्ति ।
प्रस्तुतग्रन्थे मुख्यत्वेन द्रव्याणि मीमांसितानि सन्ति । यद्यपि द्रव्यमीमांसनपरा अनेके ग्रन्थाः सन्ति तथापि जनदर्शनं प्रविविक्षणां परिभाषारूपेण माजंव लक्ष्यं प्रति नेतुं समास्तेऽद्यापि प्रकाममपेक्षन्ते ।
(५)