________________
१२०
जैन सिदान्त दीपिका
२८. इन्द्रियमनोनिग्रहकारकमनुष्ठानं कर्मशरीरतापकत्वान सम्यक्तपः।
एतत् कर्मशरीरतापकत्वादेव आत्मनो वैशद्यापादक भवति ।
२६. अनशन-ऊनोदरिका-वृत्तिसंक्षेप-रसपरित्याग-कायक्लेश-प्रतिसंलीनता बाह्यम्।
एते षट् मोक्षसाधने बहिरंगत्वाद् बाह्य तपः ।
३०. आहारपरिहारोऽनशनम् ।
अन्न-पान-खाद्य-स्वाद्यरूपचतुर्विधस्याहारस्य परित्याग:--- अनशनम् ।
तच्च विधाइत्वरिकम्-उपवासादारभ्य आषण्मासम् । यावत्कथिकम्-आमरणम् ।