________________
१०४
जैन सिद्धान्त दीपिका
क्वचिदात्मना सम्बध्यमानाः, अवरुध्यमानाः, निर्जीयमाणाश्च पुद्गलाः क्रमेण द्रव्याश्रवसंवरनिर्जरा इति गीयन्ने ।
२६. अरूपिणो जीवाः।
२७. अजीवा रूपिणोऽपि ।
___ अजीवा धर्माधर्माकाशकाला अरूपिणः । पुद्गलास्तु कपिण एव । तत्पर्यायभूताः पुण्यपापबन्धा अपि रूपिणः ।
नवापि पदार्था ज्ञेयाः, संवरनिर्जरामोक्षास्त्रय उपादेयाः शेषाश्च षड् हेयाः । जीवस्यापि संसारावस्थापेक्षया इयत्वमविरुद्धम्।
अथ नवतत्त्वपरमार्थावेदको भिक्षुदशितम्तटाकदृष्टान्तो निदर्यते, तथाहि
जीवस्तटाकल्पः। अतटाकरूपोऽजीवः । बहिनिर्गच्छज्जलरूपे पुण्यपापे। विशदाविशदजलागमनमार्गरूप आश्रवः । जलागमनमार्गावरोधल्पसंवरः । जलनिष्कासनोपायरूपा निर्जरा।