________________
जैन सिद्धान्त दीपिका
२०. क्रोधमानमायालोमात्मा।
२१. प्रत्येकमनन्तानुबन्धि-अप्रत्याख्यान-प्रत्याख्यान-संज्वलनभेदा
च्चनुर्धा। ___ एते क्रमेण सम्यक्त्व-देशविरति-सर्वविरति-यथाख्यातचारित्रपरिपन्थिनः।
पर्वत-भूमि-रेणु-जलराजिस्वभावः क्रोधः । शैल-अस्थि-दारु-लतास्तम्भस्वरूपो मानः ।
वंशमूल-मेषविषाण - गोमूत्रिका-उल्लिख्यमानवंशच्छल्लिसदृशी माया।
कृमिराग-कर्दम-खजन-हरिद्वारागसन्निभो लोभः ।
२२. काय-वाङ्-मना-यापारो योगः।
वीर्यान्तराय-भय-क्षयोपशम-शरीरनामकर्मोदयजन्य: कायभाषामनोवर्गणाववाङ्मनःप्रवृत्तिरूप:-भात्मपरिणामः योगोऽभिधीयते ।
१. सजातीयपुद्गलसमूहो वर्गणा ।