________________
जैन सिदान्त दीपिका
१२. द्रव्यभावभेदादेते बन्धाद्भिन्ने ।
द्रव्यं तक्रियाविरहितम, भावाच तक्रियापरिणतः ।
अनुदयमानाः सदसत्कर्मपद्गला बन्धः-द्रव्यपुण्यपापे, तत्कलानहत्वात् । उदयमानाश्च ते क्रमशो भावपुण्यपापे, तत्फलाहत्वाद्-इत्यनयोबन्धाद् भेदः।
१३. कर्माकर्षणहेतुरात्मपरिणाम आश्रवः ।
आश्रवन्ति-प्रविशन्ति कर्माणि आत्मनि येन परिणामेन स आश्रवः-कर्मबन्धहेतुरिति भावः ।
'आश्रवद्वाराणि' इत्यपि प्रयोगोलभ्यते। तत्र आश्रवणम्आश्रवः, कर्मप्रवेश इति भावः । तस्य द्वाराणि-उपायाः आश्रवद्वाराणि-कर्मबन्धहेतूनि इति ।
१४. मिथ्यात्वमविरतिः प्रमादः कषायो योगश्चः।
___ मिथ्यात्वं प्रथमतृतीयजीवस्थाने । आपञ्चममविरतिः । आषष्ठं प्रमादः । दशमान्तः कषायः । आषष्ठमशुभयोगः । शुभयोगपचात्रयोदशम्।