________________
जैन सिदान्त दीपिका
एकसागरकोटिकोटिस्थितिमनु वर्षशतं अबाधाकालः।'
८. विपाकोऽनुभागः।
रसोऽनुभागोऽनुभावः फलम् एते एकार्याः । स च द्विधातीवाध्यवसानिमित्तस्तीवः, मन्दाध्यवसायनिमित्तश्च मन्दः ।
कर्मणां जडत्वेपि पथ्यापथ्याहारवत् ततो जीवानां तथाविधफलप्राप्तिरविरुद्धा । नतदर्थमीश्वर: कल्पनीयः ।
६. दलसंचयः प्रदेशः।
दलसंचय:-कर्मपुद्गलानामियत्तावधारणम् ।
१०. शुभं कर्म पुण्यम्।
शुभं कर्म सातवेदनीयादि पुण्यमभिधीयते ।
११. अशुभं कर्म पापम्।
अशुभं कर्म ज्ञानावरणादि पापमुच्यते ।
१. बायुषोऽपवादः।