________________
जैन सिद्धान्त दीपिका
५. प्रकृतिस्थित्यनुभागप्रदेशास्तभेदाः ।
६. सामान्योपात्तकर्मणां स्वभावः प्रकृतिः।
___सामान्येन गृहोतेषु कर्मसु एतज्ज्ञानस्य वारकम, एतन्न दर्शनस्य इत्यादिरूपः स्वभावः प्रकृतिः ।
शानावरणादयष्टौमूलप्रकृतयः। तासामुत्तरप्रकृतयः यथाज्ञानावरणस्य पञ्च, दर्शनावरणस्य नव, वेदनीयस्य द्वे, मोहनीयस्य दर्शनचारित्रभेदादष्टाविंशतिः, आयुषश्चतस्रः, नाम्नो द्विचत्वारिंशत्, गोत्रस्य दे, अन्तरायस्य च पंच। सर्वामिलिताः सप्तनवतिः।
७. कालावधारणं स्थितिः ।
यथा शानदर्शनावरणवेदनीयान्तरायाणां त्रिशत्कोटिकोटिसागरोपमाणि परास्थितिः । मोहनीयस्य सप्ततिः । नामगोत्रयोविंशतिः । त्रयस्त्रिंशत् सागरोपमाणि मायुषः।।
अपरा-बादशमुहूर्ता वेदनीयस्य । नामगोत्रयोरप्टो । शेषाणां चान्तर्मुहूर्तम् ।
१. दर्शनमोहनीयापेक्षया चारित्रमोहनीयस्य तु चत्वारिंगत् कोटि
कोटिसागरोपमाणि स्थितिः । २. संपरायसातवेदनीयमाश्रित्य ।