________________
मल्लिषेणसूरि
(४) जगदीशं जिनं देवमभिवन्द्याभिशंकरम् । वक्ष्ये सरस्वतीकल्प समासेनाल्पमेधसाम् ॥ १ अभयज्ञानमुद्राक्षमालापुस्तकधारिणी। त्रिनेत्रा पातु मां वाणी जटाबालेन्दुमाण्डिता ॥ २ लब्धवाणीप्रसादेन मलिषणेन सूरिणा। रच्यते भारतीकल्पः स्वल्पजाप्यफलप्रदः ॥ ३
कृतिना मलिपेणेन जिनसेनस्य सूनुना । रचितो भारतीकल्पः शिष्टलोकमनोहरः ॥ ७७ सूर्यचन्द्रमसौ यावन्मेदिनीभूधरार्णवाः । तावत्सरस्वतीकल्पः स्थयाच्चेतसि धीमताम् ।। ७८
-सरस्वतीकल्प
(५) चन्द्रप्रभं जिनं नत्वा शरच्चन्द्रसमप्रभम् । वक्ष्येहं ज्वालिनीकल्पं संकल्पितसमप्रभम् ॥ १
श्रीमतोऽजितसेनस्य सूरः कर्मातिधूरिणः । शिष्यः कनकसेनोभूद्रुणिक् (?) मुनिजनस्तुतः ॥ २ तदीयशिष्यो जिनसेनसूरिः तस्याग्रशिष्योऽजनि मल्लिषेणः । वाग्देवतालक्षितचारुवक्त्रस्तेनारचि (?) शिखिदेविकल्पः ॥ ३ कुमतिमतविभेदी जैनतत्त्वार्थवेदी हृतदुरितसमूहः क्षीणसंसारमोहः । भवजलधितरंण्डो वाग्ववास्त्ररण्डो (?) । विबुधकुमुदचन्द्रो मल्लिषेणो गणीन्द्रः ॥ ४
-ज्वालिनीकल्प