________________
जैनसाहित्य और इतिहास
षड्भाषाकविचक्रवर्ति सुतरां श्रीशान्तिनाथस्य वै नानावर्णनसंयुतं अघहरं पुण्यप्रदं पावनम् ॥ ४६५ श्रीगर्जरेप्यस्ति पुरं प्रसिद्धं सौजित्र नामाभिधमेव सारं । श्रीनेमिनाथस्य समीपमाशु चकार शास्त्रं जिनभूतिरम्यम् ॥ ४६६ अस्य शास्त्रस्य विज्ञयाः श्लोकाः चतुःसहस्रकाः।
पंचविंशतिसंयुक्ता विज्ञेया लेखकैः सदा ॥ ४६७ इति श्रीशान्तिनाथपुराणे भट्टारकश्राविद्याभूषणतत्पट्टाचलादेवाकरायमानभट्टारकश्रीश्रीभूषणविरचिते शान्तिनाथसमवसरण-धर्मोपदेश-मोक्षगमनवर्णनो नाम षोडशः सर्गः समाप्तः। लिखितं मुनि रामविजयेन यथा प्रति लेखकज दोषो न विद्यते ।
पार्श्वनाथपुराणकी प्रशस्ति काष्ठासंघे गच्छनन्दीतटीयः श्रीमद्विद्याभूषणाख्यश्चसूरिः । आसीत्पट्टे तस्य कामान्तकारी विद्यापात्रं दिव्यचारित्रधारी । तत्पट्टाम्बरभूषणैकतरणिः स्याद्वादविद्याचणो विद्वद्वन्दकुलाभिमानशिखरप्रध्वंसतीवाशनिः। सच्चारित्रतपोनिधिर्मतिवरो विद्वत्सु शिष्यैर्युतः श्रीश्रीभूषणसूरिराट विजयतेश्रीकाष्ठासंघाग्रणीः ।। यदग्रतो नैतिगुरुर्गुरुत्वं श्लाघ्यं न गच्छत्युशनोऽपि बुद्धया भारत्यपि (?) नैति माहात्म्यमुग्रं श्रीभूषणः सूरिवरःस पायात् ।।
X
श्रीमद्देवीगरौ मनोहरपुर श्रीपार्श्वनाथालये वर्षेब्धीषुरसेकमेय इह वै श्रीविक्रमांके सरे । सप्तम्यां गुरुवासरे श्रवणभे वैशाखमासे सिते
पाश्र्वाधीशपुराणमुत्तममिदं पर्याप्तमेवोत्तरम् ।। इति त्रिजगदेकचूडामणिश्रीपार्श्वनाथपुराणे श्रीचन्द्रकी-चार्यप्रणीते भगवनिवणिकल्याणकव्यावर्णनो नाम पंचदशः सर्गः ।
१ पार्श्वपुराणकी विस्तृत प्रशस्ति ऐलक पं० सरस्वती-भवनकी पाँच वर्षकी रिपोर्टमें ( पृष्ठ २७,३४ ) में प्रकाशित हुई है।