________________
चतुविशति यक्ष
१४६
त्र्यास्य: श्यामो नवाक्षः शिखिगमनरस: षड्भुजो वामहस्तप्रस्तारे मातुलिंगाक्षवलयभुजगान् दक्षिणे पाणिवृन्दे । बिभ्राणो दीर्घजिह्वद्विषदभय गदासादिताशेषदष्ट: कष्टं संघस्य हन्यात्रिमुखसुरवरः शुद्धसम्यक्त्वधारी ।।
प्राचारदिनकर, उदय ३३, पन्ना १७४
तस्मिंस्तीर्थे समुत्पन्नं त्रिमुखयक्षेश्वरं त्रिमुखं त्रिनेत्रं श्यामवर्ण मयूरवाहनं षड्भुजं नकुलगदाभययुक्नदक्षिणपाणिं मातुलिंगनागाक्षसूत्रान्वितवामहस्तं चेति ।
निर्वाणकलिका, पन्ना ३४ स बभ्रगदाभृदभीप्रददक्षिणदोस्त्रयः । समातुलिङ्गनागाक्षसूत्रवामभुजत्रयः ।। त्रिनेत्र: षड्भुजो यक्षः श्यामो बहिणवाहनः । त्रिमुखस्त्रिमुखाख्योभूत् तीर्थे श्रीसम्भवप्रभोः ।।
अमरचन्द्र, संभवचरित्र, १७-१८
मयूरस्थस्त्रिनेत्रः त्रिवक्त्रः श्यामबणंकः । परश्वक्षगदाचशंखा वरश्च षड्भुजः ।।
अपराजितपृच्छा, २२१ । ४५
४. यक्षेश्वर
प्रेख द्धनुःखेटकवामपाणिं सकंकपत्रास्यपसव्यहस्तम् । श्यामं करिस्थं कपिकेतुभक्तं यक्षेश्वरं यक्षमिहार्चयामि ।।
प्राशाधर, ३/१३२ कोदण्डसत्खेटक वामहस्तं वामान्यहनोद्धृतवाणखड्गं । यक्षेश्वरं त्वामभिनंदनाहत्पादाब्ज गं प्रयजे प्रसीद ।।
नेमिचन्द्र, ३३२ अभिनंदननाथस्य यक्षो यक्षेश्वराभिधः । हस्तिवाहनमारूढःश्यामवर्णश्चतुर्भुजः ।।
वसुनन्दि, ५।२१