________________
१४८
जन प्रतिमालक्षण
द्विरदगमनकृच्छितिश्चाष्टबाहुचतुर्वक्त्रभाग्मुद्गरं वरदमपि च पाशमक्षावलि दक्षिणे हस्तवृन्दे वहन् । अभयमविकलं तथा मातलिंगं सृणिशक्तिमाभासयत् सततमतुलं वामहस्तेषु यक्षोत्तमोसो महायक्षकः।।
प्राचारदिनकर, उदय ३३,पन्ना १७४ तथा तत्तीर्थोत्पन्न महायमाभिधानं यक्षेश्वरं चतुर्मुखं श्यामवर्णं मातङ्गवाहनमष्टपाणि वरदमुद्गराक्षमूत्रपाशान्वितदक्षिणपाणि बोजपूरकाभयांकुशशक्तियुक्तवामपाणिपल्लवं चेति ।
निर्वाणकलिका, पन्ना ३४ सपाशाक्षस्रग्मुद्गरवरदैदक्षिणेतरैः करः । शक्त्यङ्क, शबोजपूराभयदैर्दक्षिण तरैः।। अष्टबाहुमहायक्ष नामा यक्षश्चतर्मुखः । श्यामो गजरथस्तीर्थे समभूजितप्रभोः ।।
अमरचन्द्र, अजितचरित्र, १६,२० श्यामोष्टबाहु स्तिस्था वरदाभयमुद्गगः । अक्षपाशांकुशाः शक्तिर्मातलिंगं नथैव च ।
अपराजितपृच्छा, २२११४४ ३. त्रिमुख
चक्रासिशृण्युपगसव्यसयोन्यहस्त दंडत्रिशूलमुपयन् शितकतिकां च । वाजिघ्वजप्रभुनतः शिखिगांजनाभ स्त्र्यक्षः प्रतीक्षत बलिं त्रिमुखाख्ययक्षः ।।
प्राशाधर, ११३१ सव्यः करैश्च क्रमसि सणि यो दंडं त्रिशूलं सितकत्रिकां च । अन्य बिभर्ति श्रितसंभव तं यजे त्रिनेत्र त्रिमुखाख्ययक्षम् ।।
नेमिचन्द्र,३३२ षड्भुजस्त्रिमुखो यक्ष स्त्रिनेत्रशिखिवाहनः । श्यामलांगो विनीतात्मा संभवजिनमाश्रितः ।।
वसुनन्दि,५ ॥१६