________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૪૫
॥ श्री नमिनाथजीन चैत्यवंदन
(पंचचामरं छन्दः) नमीश निर्मलात्मरुप सत्यरुप शाश्वतं परोसिद्धिसौधमूर्ध्नि सत्स्वभावतः स्थितम् । विधाय मानेसाब्जकोशदेशमध्यवतिनं स्मरामि सर्वदा भवन्तमेव सर्वदर्शिनम् ॥ १॥ प्रफुल्लन्नौंचलांछनमभूततेजसोऽद्य ते दिवाकरस्य वा महेश्वराभिदर्शनेन मे । प्रमादवधिनी सुदुर्मतिनिशेव दुर्भगा गता प्रणाशमाशु हत्कजे विनिद्रताऽभवत् ॥ २ ॥ निरस्त दोषदुष्टकष्टकार्यमर्त्यसंस्तवो भवे । भवे भवत्पदाम्बुजैक सेवकः प्रभो । भवेयमीदृशं भृशं मदीयचित्तचिन्ततं तव प्रसादतो भवत्ववन्ध्य पेव सत्वरम् ॥ ३ ॥ ॥ अथ श्रोनेमीनाथजिनचैत्यवंदन ॥
उपजाति छन्दः) विशुद्धविज्ञानभृर्ता वरेण शिवात्मजेन प्रशमाकरेण । येन प्रयासेन विनैव कामं विजित्य विक्रान्तरं प्रकामम् ।। १ ॥ विहाय राज्यं चपलस्वभाव राजीमति राजकुमारिकां च । गत्वा सलीलं गिरिनारशैलं भेजे व्रतं केवलमुक्तियुक्तम् ।। २ ॥ निःशेषयोगी श्वरमौलिरत्नं जितेन्द्रियत्वे विहितपयत्नम् । तमुत्तमानन्दनिधानमेकं नमामि नेमि विलसद्विवेकम् ॥ ३॥ ॥ अथ श्रीपार्श्वनाथ जिन चैत्यवंदन ॥
(पंचचामरं छन्दः) श्रयामि तं जिनं सदा मुदा प्रमादवर्जितं स्वकीयवाग्विला
For Private And Personal Use Only